Table of Contents

<<3-4-52 —- 3-4-54>>

3-4-53 द्वितीयायां च

प्रथमावृत्तिः

TBD.

काशिका

परीपसायाम् इत्येव। द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोः णमुल् प्रत्ययो भवति। यष्टिग्राहं युध्यन्ते, यष्टिं ग्राहम्। लोष्टग्राहम्, लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणम् अपि न अद्रियते। लोष्तादिकं यत् किंचिदासन्नं तद् गृह्णाति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1628 द्वितीयायां। परीप्सायामित्येवेति। कथं तर्हि `अनुदात्तं पदमेकवर्ज'मिति, नह्रत्र त्वरा गम्यते ?। अत्राहुः- अस्यां हि परिभाषायां त्वरा विवक्षिता। तेनयमर्थः–उदात्तः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदात्तं कर्तव्यं, न विलम्बतिव्यमिति। यष्टिग्राहमित्यादि। एवं खलु युद्धाय त्वरन्ते यदासन्नं यष्ट\उfffदादिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इति भावः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः परीप्सायामित्येव । To express haste, the affix ‘णमुँल्’ may be used following a verbal root when in conjunction with a पदम् which ends in the accusative case. Note: Here परीप्सा means त्वरा (haste.)

उदाहरणम् – विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ (गीता 2-59) ‘वर्जम्’ is derived from the verbal root √वृज् (वृजीँ वर्जने १०. ३४४).

वृज् + णिच् 3-1-25 = वृज् + इ 1-3-3, 1-3-7, 1-3-9 = वर्ज् + इ 7-3-86, 1-1-51 = वर्जि । ‘वर्जि’ gets धातु-सञ्ज्ञा by 3-1-32.

रस + अम् + वर्जि + णमुँल् 3-4-53. Note: The पदमञ्जरी commentary says – परीप्सायामिति प्रायिकम् meaning that the condition परीप्सायाम् (to express haste) is not strictly required to use the सूत्रम् 3-4-53. This is inferred from the fact that पाणिनि: himself has used 3-4-53 in deriving the word एकवर्जम् (in the सूत्रम् 6-1-158 अनुदात्तं पदमेकवर्जम्) even though ‘haste’ is not apparent. Similarly here in the word रसवर्जम् 3-4-53 has been used even though the condition of परीप्सायाम् is not strictly satisfied. = रस अम् + वर्जि + अम् 1-3-2, 1-3-3, 1-3-7, 1-3-9 = रस अम् + वर्ज् + अम् 6-4-51 = रस अम् + वर्जम्

Compounding between ‘रस अम्’ and ‘वर्जम्’ would have been compulsory as per 2-2-19 उपपदमतिङ् (with the permission of 2-2-20 अमैवाव्ययेन), but the next सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ makes the compounding optional.

Example continued under 2-2-21