Table of Contents

<<3-4-50 —- 3-4-52>>

3-4-51 प्रमाणे च

प्रथमावृत्तिः

TBD.

काशिका

तृतीयासप्तम्योः इत्येव। प्रमाणम् आयामः, दैर्घ्यम्। प्रमाणे गम्यमने तृतीयासप्तम्योः उपपदयोः धातोर् णमुल् प्रत्ययो भवति। द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम्। त्र्यङ्गुलोत्कर्षम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1627 द्व्यङ्गुलोत्कर्षमिति। द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम्। `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः' इत्च् समासान्तः। द्व्यङ्गुलेनोत्कृष्य। परिच्छित्येत्यर्थः। स्वल्पः खण्डः खण्डिका। ह्यस्वः खण्डः खण्डिकेति मनोरमायामुक्तम्। यद्यपि ह्यस्वशब्दो वामनपर्यायतया चेतनेष्वेव प्रायेण प्रयुज्यते, अल्पे ह्यस्वे इति पृथक्सूत्रस्वारस्यात्, तथापि ह्यस्वदीर्घत्यादिनिर्देशादचेतनेष्वपि क्वचिद्भवतीत्याहुः।

Satishji's सूत्र-सूचिः

TBD.