Table of Contents

<<3-4-49 —- 3-4-51>>

3-4-50 समासत्तौ

प्रथमावृत्तिः

TBD.

काशिका

सप्तम्याम् तृतीयायाम् इति वर्तते। समासत्तिः सन्निकर्षः। समासत्तौ गम्यमानायां तृतीयासप्तम्योः उपपदयोः धातोः णमुल् प्रत्ययो भवति। केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर् ग्राहम्। हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर् ग्राहम्। युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1626 समासत्तौ। केशग्राहमिति। केशेषु ग्रहणं भवतु वा, मा भूत्, सन्निकर्षप्रतिपादनपरमेतत्।

Satishji's सूत्र-सूचिः

TBD.