Table of Contents

<<3-4-32 —- 3-4-34>>

3-4-33 चेले क्नोपेः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। क्नूयी शब्दे उन्दने च, अस्माण्ण्यन्ताद् धातोः चेलर्थेषु कर्मसु उपपदेषु णमुल् प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने। चेलक्नोपं वृष्टो देवः। वस्त्रक्नोपम्। वसनक्नोपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1617 चेलेः। व्याख्यानादर्थग्रहणमित्याहुः। चेलार्थेष्विति। चेलक्नोपमित्यादि। यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थः। अन्ये तु क्नूथी क्लेदने, क्लिदू आद्र्रीभावे इत्येवं क्नोपयति ममुलन्तस्य प्रकृत्यर्थ पर्यालोच्य यथा वर्षमेन चेलान्याद्र्रीभवन्ती तावद्वृष्ट इति व्याचख्युः।

Satishji's सूत्र-सूचिः

TBD.