Table of Contents

<<3-4-30 —- 3-4-32>>

3-4-31 चर्मौदरयोः पूरेः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। चर्मोदरयोः कर्मणोरुपपदयोः पूर्यतेः णमुल् प्रत्ययो भवति। चर्मपूरं स्तृणाति। उदरपूरं भुङ्क्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1616 चर्मोदर। कर्मणीत्येवेति। एवं च पूरेरिति ण्यन्तस्य निर्देशो, न तु केवलस्य `इक्श्तिपौ' इति इका निर्देशः। तस्याऽकर्मकत्वादिति भावः। चर्मपूरमित्यादि। चर्म पूरयित्वा। उदरं पूरयित्वा उदरपूरणविशिष्टाभुजिक्रियेत्यर्थः। इह पूर्वकाले इति न संबध्यतेऽसंभवात्, अप्रतीतेश्च। एवमन्यत्रापि यथासंभवं बोध्यम्। उदरपूरणविशिष्टाभुजिक्रियेत्यर्थः। इह पूर्वकाले इति न संबध्यतेऽसंभवात्, अप्रतीतेश्च। एवमन्यत्रापि यथासंभवं बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.