Table of Contents

<<3-4-29 —- 3-4-31>>

3-4-30 यावति विन्दजीवोः

प्रथमावृत्तिः

TBD.

काशिका

यावच्छब्द उपपदे विन्दतेर् जीवतेश्च णमुल् प्रत्ययो भवति। यावद्वेदं भुङ्क्ते। यावल्लभते तावद्भुङ्क्ते इत्यर्थः। यावज्जीवम् अधीते। यावज्जीवति तावदधीते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

1615 यावति विन्द। विदेर्लाभार्थस्यानुकरणम्। तस्य हि `विन्दती'त्यादौ `शे मुचादीना'मिति नुमस्ति। यावल्लभत इति। असाकल्यमनेन दर्शयति। साकल्ये हि `कर्मणि दृशिविदो'रित्यनेनैव सिद्धम्।

Satishji's सूत्र-सूचिः

TBD.