Table of Contents

<<3-4-28 —- 3-4-30>>

3-4-29 कर्मणि दृशिविदोः साकल्ये

प्रथमावृत्तिः

TBD.

काशिका

कर्मण्युपपदे साकल्यविशिष्ते ऽर्थे दृशिविदोः धात्वोः णमुल् प्रत्ययो भवति। कन्यादर्शं वर्यति। याः याः कन्याः पश्यति तास्ताः वर्यति इत्यर्थः। ब्राह्मणवेदं भोजयति। यं यं ब्राह्मणं जानाति लभते विचारयति वा तान् सर्वान् भोजयति इत्यर्थः। साकल्ये इति किम्? ब्राह्मणं दृष्ट्वा भोजयति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1614 कन्यादर्शमिति। अत्र दर्शनविषयीभूतानां सर्वासां कन्यानां वाक्यार्थऽन्वयात्साकल्यं बोध्यम्। सर्वा इति। दर्शनविषयीभूताः सर्वा इत्यर्थः। अतिशयप्रतिपादनपरमेतत्। ब्राआहृणवेदमिति। विद ज्ञाने, विद्लृ लाभे, विद विचारमे इति धात्वर्थान्पर्यालोच्य व्याचष्टे– जानातीत्यादि। सत्तार्थस्य विदेरनेकार्थत्वान्नेह ग्रहणमिति भावः।

Satishji's सूत्र-सूचिः

TBD.