TBD.
कृञः इत्येव। अन्यथादिषु उपपदेसु कृञो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतेर् भवति। कथं पुनरसौ सिद्धाप्रयोगः? निरर्थकत्वान् न प्रयोगम् अर्हति इति एवम् एव प्रयुज्यते। अन्यथा भुङ्क्ते इति यवानर्थस्तावानेव अन्यथाकारं भुग्क्ते इति गम्यते। अन्यथाकारं भुङ्क्ते। एवङ्कारं भुङ्क्ते। कथङ्कारं भुङ्क्ते। इत्थंकारं भुङ्क्ते। सिधाप्रयोगः इति किम्? अन्यथा कृत्वा शिरो भुङ्क्ते।
TBD.
890 अथ विभक्तयर्थाः
–
1612 व्यर्थत्वादिति। निष्प्रयोजनत्वादित्यर्थः। तदेतद्दर्शयति–इत्थं भुङ्क्त इत्यर्थ इति। इह शाब्दबोधे विशेषसत्त्वेऽपि फलितार्थः। कथनपरतया कारमिति णमुलन्तस्य निष्फलत्वमुक्तम्, अनतिप्रयोजनत्वात्। विस्तरस्तु मनोरमादावनुसन्धेयः। शिरोऽन्यतेति। इह शिरोऽन्यथा कृत्वौदनादिकं भुङ्क्त इत्यर्थलाभाय करोतेः प्रयोग आवश्यकः। तदभावे तु भुजिक्रियागत एव प्रकारो गम्येत न तु शिरसोऽन्यथाकरणम्, अतः करोतेः प्रयोगार्हत्वमस्तीति णमुलन्तः करोतिरिह न प्रयुज्यत इति भावः।
TBD.