TBD.
समानकर्तृकयोः पूर्वकाले कृञः इति च अनुवर्तते। स्वादुमि इत्यर्थग्रहणम्। स्वाद्वर्थेषु उपपदेषु कृञो णमुल् प्रत्ययो भवति। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारं भुङ्क्ते। लवणङ्कारम्। स्वादुमि इति मकारान्तनिपातनम् ईकाराभावार्थम्, च्व्यन्तस्य अपि मकारार्थं दीर्घाभावार्थं च। अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते। वासरूपेण क्त्वा अपि भवति, स्वादुं कृत्वा भुङ्क्ते। तुमर्थाधिकाराच् च सर्व एते भावे प्रत्ययाः। यद्येवम्, स्वादुङ्कारं भुङ्क्ते देवदत्तः इति णमुला कर्तुरनभिहितत्वात् कर्तरि कस्मात् तृतीया न भवति? भुजिप्रत्ययेन अभिहितः कर्ता, न च अस्मिन् प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्य्ते, समानकर्तृकत्वं हि विरुध्यते। प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत् प्रकाशते।
TBD.
–
–
1611 स्वादुमि। `स्वांदुमी'त्यर्थग्रहणं, व्याख्यातम्। तदाह– स्वाद्वर्थेष्विति। मान्त्तवमिति। ननु `स्वादौ' इत्येव सूत्रमस्तु, मास्त्वत्र णमुल्। खमुञेवानुवर्त्त्यताम्। `अरुर्द्विष'दिति मुम्भविष्यति। एवं च निपातनं विनापि मान्तत्वं सिध्यतीति महल्लाघवमिति चेन्मैवम्। च्व्यन्तस्य मुम्न स्यात्, अनव्ययस्येति वचनात्, ततश्च स्वादुङ्कारमित्यत्र `च्वौ चे'ति दीर्घः स्यात्, `सम्पन्नङ्कारः' मित्यादिषु `अस्य च्वौ' इतीत्वं स्यात्। किं च स्त्रियां `वोतो गुणवचना'दिति ङीषि स्वाद्वीकारमिति स्यादतोऽत्र स्वादुमिति रूपं निपात्यते। ततश्चानजन्तत्वान्नेत्त्वदीर्घौ, न वा ङीष्। निपातनमिह भावप्रत्ययमात्रविषकम्। तेन स्वादुङ्कृत्वेत्यपि सिध्यति। स्यादेतत्– उक्तदोषपरिहाराय `स्वादुमी'त्येव सूत्रमङ्गीक्रियतां, णमुल्तु त्यज्यतां, कृञः खमुञि कृतेषऽपि `स्वादुङ्कार'मित्यादिरूपसिद्धरिति चेन्मैवम्। तथा सत्युत्तरसूत्रेषु सन्निहितत्वात् खमुञेवाऽनुवर्तत इति कन्यादर्शनं ब्राआहृणवेदमित्यादिषु पूर्वपदस्य मुमागमः स्यादिति दिक्।
TBD.