TBD.
अप्राप्तविभाषेयम्। आभीक्ष्ण्ये इति न अनुवर्तते। अग्रे प्रथम पूर्व इत्येतेषु उपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययु विभाषा भवतः। अग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति। प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति। पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति। विभाषाग्रहणम् एताभ्यां मुक्ते लडादयो ऽपि यथा स्युः। अग्रे भुङ्क्ते ततो व्रजति। ननु च वासरूप इति भविस्यति? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर् न अस्ति इत्येतदनेन ज्ञाप्यते, तेन आभीक्ष्ण्ये लडादयो न भवन्ति। उपपदसमासः कस्मान् न क्रियते? उक्तं तत्र एव कारस्य प्रयोजनम्, अमैव यत् तुल्यविधानम् उपपदं तत् समस्यते, न अन्यतिति।
TBD.
–
–
1610 विभाषाऽग्रे। यद्यप्यग्रेशब्दो देशविशेषवचनोऽप्यस्ति, `प्रभोरग्रेभुङ्क्ते' इत्यादिप्रयोगात्, तथापीह कालविशेषवाच्येव गृह्रते, प्रथमशब्दसाहचर्यात्। `प्रथमं भुङ्क्ते' इत्यादौ तु काल एव हि प्रतीयते। `अग्रे' इति सप्तम्यन्तस्यानुक्रणम्। `प्रकृतिवदनुकरण'मित्यस्य वैकल्पिकत्वाद्विभक्तेर्लुङ्न कृतोऽस्यवामीय'मिति वत्। अग्रेभोजमिति। `अग्रेभोजमिति। `अमैवाव्ययेने'ति नियमाद्व्यस्तमेवेदं, न त्वत्रोपपदसमासः। नन्वग्रेप्रथमपूर्वशब्दैः पूर्वकालत्वमुच्यत इति कथमिह क्त्वाणमुलौ स्यातामिति चेदत्राहुः– अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीति हि वाक्यार्थः। तत्राग्रेप्रभृतिभिर्भोक्रपेक्षया पूर्वत्वमुच्यते चेदत्रापि अन्येभ्यो भोक्तृभ्यः पूर्वं व्रजतीति व्रजनपेक्षया पूर्वत्वं तु क्त्वाणमुल्भ्यां द्योत्यत इत्याशङ्कैवात्र नास्तीति। नित्यमेव विधिरिति। अग्रे भुङ्क्ते इत्येव लडादिर्न प्रयुज्यत इतिभावः।
TBD.