Table of Contents

<<3-4-115 —- 3-4-117>>

3-4-116 लिङाशिषि

प्रथमावृत्तिः

TBD.

काशिका

आशिषि विषये यो लिङ् स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्च एवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषि इति किम्? लुनीयात्। पुनीयात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

433 आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्..

बालमनोरमा

तत्त्वबोधिनी

48 आर्धधातुकसंज्ञ इति। `लङः शाकटायनस्यैवे'त्येत एवकारोऽनुवर्तनीयः। अन्यथा एकसंज्ञाधिकारबहिर्भूत्तवेन सार्वधातुकसंज्ञापि स्यात्, ततश्च पक्षे शबादिः स्यात्।

Satishji's सूत्र-सूचिः

वृत्ति: आशिषि लिङस्तिङार्धधातुकसञ्ज्ञः स्यात्। A तिङ् affix which comes in the place of लिङ् used in the sense of benediction gets the आर्धधातुक-सञ्ज्ञा।

उदाहरणम् – उच्यात् derived from √वच् (वचँ परिभाषणे २. ५८). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वच् + लिँङ् (आशिषि) 3-3-173
= वच् + ल् 1-3-2, 1-3-3, 1-3-9
= वच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वच् + ति 1-3-3, 1-3-9
= वच् + त् 3-4-100. As per 3-4-116, the affix “त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= वच् + यासुट् त् 3-4-103, 1-1-46
= वच् + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.

Example continued under 3-4-104.