Table of Contents

<<3-3-94 —- 3-3-96>>

3-3-95 स्थागापापचो भावे

प्रथमावृत्तिः

TBD.

काशिका

स्त्रियाम् इति वर्तते। स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति। अङो ऽपवादस्य बाधकः। प्रस्थितिः। उद्गीतिः। सङ्गीतिः। प्रपीतिः। इति ज्ञापकात् नात्यन्ताय बाधा भवति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1557 अङोऽपवादः इति। पुरस्तादपवादन्यायेन स्थादिभ्यः `आतश्चोपसर्गे' इति, पचेस्तु `षिद्भिदादिभ्यः' इति प्राप्तस्याऽङोऽपावदो न तु ण्वुलिञोरिति भावः। ण्वुलिञौ तु परत्वाद्भवत एव। `कां त्वं स्थायिकां , कां त्वं स्थायि'मिति भाष्यकारप्रयोगात्। प्रस्थतिरिति। `द्यतिस्यतिमास्था' मित्यात इत्त्वम्। सङ्गीतिरिति। `घुमास्थे'त्यादिना ईत्त्वम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः क्तिन् स्यादङोऽपवाद: । The affix क्तिन् is be used following the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or √गै (गै शब्दे १. १०६५) or √पा (पा पाने १. १०७४) or √पच् (डुपचँष् पाके १. ११५१) to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: अङोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अङ्’ prescribed by 3-3-106 आतश्चोपसर्गे (in the case of √स्था, √गै and √पा) and 3-3-104 षिद्भिदादिभ्योऽङ् (in the case of √पच्)।

उदाहरणम् – उपस्थानमुपस्थिति: derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: ‘उप’।

उप स्था + क्तिन् 3-3-95. Note: 3-3-95 is an exception to 3-3-106 here.
= उप स्था + ति 1-3-3, 1-3-8, 1-3-9
= उपस्थिति 7-4-40. ‘उपस्थिति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

कथमवस्था संस्थेति? ’1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्’ इति ज्ञापकात्।