Table of Contents

<<3-3-93 —- 3-3-95>>

3-3-94 स्त्रियां क्तिन्

प्रथमावृत्तिः

TBD.

काशिका

भावे अकर्तरि च कारके ति वर्तते। स्त्रीलिङ्गे भावादौ धातोः क्तिन् प्रत्ययो भवति। घञजपामपवादः। कृतिः। चितिः। मतिः। क्तिन्नावादिभ्यश्च वक्तव्यः। आबादयः प्रयोगतो ऽनुसर्तव्याः। आप्तिः। राद्धिः। दीप्तिः। स्रस्तिः। ध्वस्तिः। लब्धिः। श्रुयजिस्तुभ्यः करणे। श्रूयते अनया इति श्रुतिः। इष्टिः। स्तुतिः। ग्लाम्लाज्याहाभ्यो निः। ग्लानिः। म्लानिः। ज्यानिः। हानिः। ॠकारल्वादिभ्यः क्तिन् निष्ठावद् भवति इति वक्तव्यम्। कीर्णिः। गीर्णिः। जीर्णिः। शीर्णिः। लूनिः। यूनिः।सम्पदादिभ्यः क्विप्। सम्पद्। विपद्। प्रतिपद्। क्तिन्नपि इष्यते। सम्पत्तिः। विपत्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

866 स्त्रीलिङ्गे भावे क्तिन् स्यात्. घञोऽपवादः. कृतिः. स्तुतिः. (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः). तेन नत्वम्. कीर्णिः. लूनिः. धूनिः. पूनिः. (संपदादिभ्यः क्विप्). संपत्. विपत्. आपत्. (क्तिन्नपीष्यते). संपत्तिः. विपत्तिः. आपत्तिः..

बालमनोरमा

तत्त्वबोधिनी

1556 स्त्रियां क्तिन्। घञोऽपवाद इति। यत्तु प्रक्रियाग्रन्थं व्याचक्षाणा आहुः– `भाष्ये त्वधिकः कारोऽधिकार' इति घञप्युदाह्मत' इति, तद्रभसात्। न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः, किंतु पुंस्त्वविशिष्ट इति ध्येयम्। अजपौ त्विति। तयोरवकाशः–चयः। लवः। क्तिनोऽकाशः–कृतिः। ह्मतिः। चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः। [प्रामादिकम्। `स्फायः स्फी निष्ठायाटमिति निष्ठायामेव स्फीभावविधानादिति भावः]। श्रुयजीति। परत्वात् `करणाधिकरणयोश्चे'ति ल्युटि प्राप्ते वचनम्। श्रुतिः -श्रोत्रम्। यजेरिति। यजेः क्तिनि `वचिस्वपी'ति संप्रसारणे `व्रश्चभ्रस्जे'ति षत्वे इष्टिरिति रूपम्। इज्यतेऽनयेति विग्रहःओ। एवमिष्यतेऽनया इष्टिः। स्तूयतेऽनया स्तुतिः। तेन नत्वमिति। कीर्णिरित्यादौ `रदाभ्या'मित्यनेन नत्वम्। लूनिरित्यादौ तु `ल्वादिभ्यः' इत्यनेनेति विवेकः। ह्लाद इति। `ह्लादो निष्ठाया'मित्यत्रेत्यर्थः। चूर्तिरिति। `ति चे'ति चरफलोरुत्वे `र्वोरुपधाया दीर्घः' इति दीर्घः। चायतेः। चायृ पूजानिशामनयोः]। क्तिन्नपीति। अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरबाधादिदमुक्तम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः स्‍त्रीलिङ्गे भावादौ क्तिन् स्‍यात् । The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.
Note: अजपौ तु परत्वाद्बाधते । 3-3-94 स्त्रियां क्तिन् is a later rule in the अष्टाध्यायी compared to 3-3-56 एरच् and 3-3-57 ॠदोरप्‌। Hence in the feminine gender the affix क्तिन् overrules the affix अच् (prescribed by 3-3-56) and the affix अप् (prescribed by 3-3-57). For example – चिति:। स्तुति:।
Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च prohibits the affix क्तिन् from taking the augment इट्।

उदाहरणम् – करणं कृति: derived from the verbal root √कृ (डुकृञ् करणे ८. १०)

कृ + क्तिन् 3-3-94
= कृ + ति 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= कृति । ‘कृति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप्। (क्तिन्नपीष्‍यते)

Video

The affix क्विँप् (as well as क्तिन्) may be used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

उदाहरणम् – सम्पदनम्। सम्पद्यतेऽनयेति वा सम्पत् derived from the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’।

सम् पद् + क्विँप् By वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप्
= सम्पद् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= सम्पद् 6-1-67. ‘सम्पद्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Similarly,
विपदनम्/आपदनम्। विपद्यते/आपद्यतेऽनयेति वा विपत्/आपत्।

क्तिन्नपीष्‍यते -
सम्पत्ति:/विपत्ति:/आपत्ति:।
Note: There may not always be an optional form (using the affix क्तिन्) wherever the affix क्विँप् is used (by the वार्तिकम् सम्पदादिभ्‍यः क्विप्।) In some cases there may be only one form in usage.

Some more examples where this वार्तिकम् is used -
युध्यन्तेऽस्यामिति युत् derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९)।
संसीदन्त्यस्यामिति संसत् derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०) preceded by the उपसर्ग: ‘सम्’।
संवेदनम्। सम्यग् वेत्त्यनयेति वा संवित् derived from the verbal root √विद् (विदँ ज्ञाने २. ५९) preceded by the उपसर्ग: ‘सम्’।