Table of Contents

<<3-3-7 —- 3-3-9>>

3-3-8 लोडर्थलक्षने च

प्रथमावृत्तिः

TBD.

काशिका

लोडर्थः प्रैषादिर् लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः। तत्र वर्तमानाद् धातोः भविष्यति काले विभाषा लट् प्रत्ययो भवति। उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दो ऽधीष्व, अथ त्वं व्याकरणम् अधीष्व। उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

611 लोडर्थलक्षणे च। लोडर्थः प्रैषादिरिति। `विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु' इत्यनुवृत्तौ `लोट् चे'ति लोड्विधानादिति भावः। कृष्णश्चेदिति। कृष्णबोजनकाले त्वं गाश्चारयेत्यर्थः। अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्, परिच्छेदकमिति यावत्। पक्षे लुट्लृटाविति। कृष्णश्चेद्भोक्ता, भोक्ष्यते वा, त्वं गाश्चारयेत्युदाहार्यम्।

तत्त्वबोधिनी

502 लोडर्थ। लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः। कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्। भोजनकाले गोचारमं त्वया कर्तव्यमित्यर्थः। पक्षे लुडिति। कृष्णश्चेद्भोक्ता, कृष्णश्चेद्भोक्ष्यते, त्वं गाश्चारयेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.