TBD.
विभाषा इत्येव। लिप्स्यमानात् सिद्धिः लिप्स्यमानसिद्धिः। लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोः विभाषा लट् प्रत्ययो भवति। अकिंवृत्तार्थो ऽयम् आरम्भः। यो भक्तं ददाति स स्वर्गं गच्छति, यो भक्तं दास्यति स स्वर्गं गमिष्यति, यो भक्तं दात स स्वर्गं गन्ता। लिप्स्यमानाद् भक्तात् स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति।
TBD.
–
610 लिप्स्यमानसिद्धौ च। लड्वेति। पक्षे यथाप्राप्तम्। लिप्स्यमानसिद्धौ लिप्सायायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति– योऽन्नमिति। योऽन्नं ददाति स स्वर्गं याति, योऽन्नं दास्यति स स्वर्गं यास्यति, योऽन्नं दाता स स्वर्गं यातेत्यन्वयः।
501 लिप्स्यमान। लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति– योऽन्नमिति।
TBD.