Table of Contents

<<3-3-5 —- 3-3-7>>

3-3-6 किंवृत्ते लिप्सायाम्

प्रथमावृत्तिः

TBD.

काशिका

विभाषा इति वर्तते। किमो वृत्तं किंवृत्तम्। वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्। डतरतमौ च इति परिसङ्ख्यानं स्मर्यते। किंवृत्ते उपपदे लिप्सायां भविष्यति काले धातोः विभाषा लट् प्रत्ययो भवति। लिप्सा लब्धुम् इच्छा, प्रार्थनाभिलाषः। कं भवन्तो भोजयन्ति, कं भवन्तो भोजयितारः। लब्धुकामः पृच्छति कतरो भिक्षां दास्यति, ददाति, दाता वा। कतमो भिक्षां दास्यति, ददाति, दाता वा। लिप्सायाम् इति किम्? कः पाटलिपुत्रं गमिष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

609 किंवृत्ते लिप्सायां। किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्य आह- - विभक्त्यन्तमिति लड्वेति। लडभावे तु लुट्लृटौ यथाप्राप्तम्। किंवृत्तशब्देन विभक्त्यन्तडतरडतमान्तानामेव ग्रहणमिति युक्तम्। कं कतरं कतमं वेति। `क्षुधितमन्नलिप्स'मिति शेषः।

तत्त्वबोधिनी

500 किंवृत्ते। किमा वृत्तं किंवृत्तम्। केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किंवृत्तं, तथापि तन्न गृह्रते, अनभिधानात्। तेनकदा भोजयिष्यसीत्यादौ भविष्यति लण्नेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.