Table of Contents

<<3-3-4 —- 3-3-6>>

3-3-5 विभाषा कदाकर्ह्योः

प्रथमावृत्तिः

TBD.

काशिका

कदा कर्हि इत्येतयोः उपपदयोर् विभाषा भविष्यति काले धातोः लट् प्रत्ययो भवति। कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता। कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्टा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

608 विभाषा कदाकर्ह्योः। `भविष्यति लड्वा स्या'दिति शेषपूरणम्। लडभावपक्षे लुटलृटौ यथाप्राप्तम्। तदाह–कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति। न च कर्हियोगे लडभावपक्षे लुडेवोचितो, नतु लृट्। `अनद्यतने र्हिलन्यतरस्या'मिति र्हिलन्तकर्हियोगविरोधादिति वाच्यं, लृडुदाहरणस्य कदायोगमात्रविषयत्वादिहुः।

तत्त्वबोधिनी

499 विभाषा। ननु `अनद्यतने र्हिलन्यतरस्या'मित्यनद्यने किमो र्हिल्विहितस्ततश्च कर्हियोगे लुटैव भाव्यमिति कथमुदाह्यियते–कर्हि भोक्ष्यत इति। अत्राहुः- - भविष्यत्सामान्ये भोक्ष्यते इति लृट्। कर्हियोगे तु अनद्यतनावगतिर्लक्षणयेति। भोक्ता वेति। ननु भविष्यत्सामान्येऽयं लड्विहितस्तस्य लुटा सह कथं विकल्पो, विषयभेदादिति चेत्, अत्राहुः– `अनद्यतने लु'डित्यत्र `विभाषा कदे'त्यादीनि कानिचित्सूत्राणीष्टानुरोधेनानुवर्तन्ते तेन, लुड्विषयेऽपि लड्भवति, न त्वनद्यने लुटा लड् बाध्यत इति।

Satishji's सूत्र-सूचिः

TBD.