Table of Contents

<<3-3-57 —- 3-3-59>>

3-3-58 ग्रहवृदृनिश्चिगमश् च

प्रथमावृत्तिः

TBD.

काशिका

ग्रहादिभ्यः धातुभ्यः अप् प्रत्ययो भवति। घञो ऽपवादः। निश्चिनोतेः तु अचो ऽपवादः। ग्रहः। वरः। दरः। निश्चयः। गमः। निश्चिग्रहनं स्वरार्थं। विशिरण्योरुपसङ्ख्यानम्। वशः। रणः। घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्। प्रतिष्ठन्ते ऽस्मिनिति प्रस्थः पर्वतस्य। प्रस्नाति अस्मिन् प्रस्नः। प्रपिबन्ति अस्याम् इति प्रपा। आविध्यन्ति तेन इति आविधः। विहन्यन्ते ऽस्मिनिति विघ्नः। आयुध्यते अनेन इति आयुधम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1543 वशिरण्योरिति। घञि प्राप्ते वचनम्। वशनं वशः। रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रणः = सङ्ग्रामः।

Satishji's सूत्र-सूचिः

TBD.