Table of Contents

<<3-3-3 —- 3-3-5>>

3-3-4 यावत्पुरानिपातयोर् लट्

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इत्येव। यावत्पुराशब्दयोर् निपातयोरुपपदयोः भविष्यति काले धातोर् लट् प्रत्ययो भवति। यावद् भुङ्क्ते। पुरा भुङ्क्ते। निपातयोः इति किम्? यावद् दास्यति तावद् भोक्ष्यते। करणभूतया पुरा व्रजिष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

607 यावत्पुरा। यावत् पुरा इति द्वे पदे। अनयोः प्रयुज्यमानयोर्लट् स्यादित्यर्थः। लुडादेरपवादः। निश्चयं द्योतयत इति। `यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे'इत्यमरः। यावद्दास्यते तावद्भोक्ष्यते इति। यत्परिणमाणकं तत्परिमाणकमित्यर्थः। `यत्तदेतेभ्यः परिमाणे वतु'बिति वतुबन्तत्वेन निपातत्वाऽभावान्न लडिति भावः। करणभूतयेति। `पुरा यास्यती'ति प्रत्युदाहरणान्तरम्। पुर्?शब्दस्य पुरेति तृतीयान्तमिदम्। तत्स्फोरणाय करणभूतयेत्युक्तम्।

तत्त्वबोधिनी

498 यावत्पुरा। लक्षमप्रतिपदोक्तपरिभाषाऽनित्येति निपातग्रहमेन ज्ञाप्यते। यावद्भुङ्क्त इति। निश्चितं भोक्ष्यते इत्यर्थः। यावद्दास्यत इति।अनद्यतनभविष्यति तु `यावद्दाता तावद्भोक्ते'ति प्रत्युदाहर्तव्यम्।

Satishji's सूत्र-सूचिः

TBD.