TBD.
चेः इत्येव। निवसन्ति अस्मिनिति निवासः। चीयते ऽसौ चितिः। पाण्यादिसमुदायः शरीरम्। राशीकरनम् उपसमाधानम्। एतेष्वर्थेषु चिनोतेः घञ् प्रत्ययः भवति, धातोरादेश्च ककार आदेशः। निवासे तावत् चिखल्लिनिकायः। चितौ आकायम् अग्निं चिन्वीत। शरीरे अनित्यकायः। उपसमाधाने महान् गोमयनिकायः। एतेषु इति किम्? चयः। इह कस्मान् न भवति महान् काष्ठनिचयः? बहुत्वम् अत्र विवक्षितं न उपसमाधानम्।
TBD.
857 एषु चिनोतेर्घञ् आदेश्च ककारः. उपसमाधानं राशीकरणम्. निकायः. कायः. गोमयनिकायः..
–
1528 आकायमिति। आचीयन्तेऽस्मिन्निष्टका इत्याकायम्। अधिकरणे घञ्। अग्निम् = अग्निस्थानविशेषं, चिन्वीत = चयनेन निष्पादयेदिति श्रुत्यर्थः।
3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।
वृत्तिः एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणम् तच्च धात्वर्थ: । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूता: । The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes either निवास: (residence/dwelling), चिति: (funeral/sacrificial fire), शरीरम् (body) or when the verbal root denotes ‘piling up/heaping.’
उदाहरणम् – निचीयन्ते (संगृह्यन्ते) धनधान्याद्यस्मिन्निति निकाय: (निवास:)।
नि कि + घञ् 3-3-41 = नि कि + अ 1-3-3, 1-3-8, 1-3-9 = नि कै + अ 7-2-115 = नि काय् + अ = निकाय 6-1-78. ‘निकाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
उदाहरणम् – आचीयन्तेऽस्मिन्निष्टका: = आकायम् (अग्निस्थलविशेषम्)। ‘आकायमग्निं चिन्वीत’। उदाहरणम् – चीयतेऽस्मिन्नस्थ्यादिकम् = काय: (शरीरम्)। उदाहरणम् – निचीयते = राशीक्रियते = निकाय:। अथवा – निचयनम् = राशीकरणम् = निकाय:। गोमयानां निकाय: = गोमयनिकाय:। प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थ:।
एषु किम्? चय:।