TBD.
परिशब्दे उपपदे इणो धातोः घञ् प्रत्ययो भवति, अनुपत्यये गम्यमाने। क्रमप्राप्तस्य अनतिपातो ऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः। अनुपात्यये इति किम्? कालस्य पर्ययः। अतिपातः इत्यर्थः।
TBD.
–
–
1527 परावनु। अत्र व्याचख्युः–द्विः परिग्रहणमिह व्यर्थम्। सकृदेव कर्तुं शक्यम्। तथा हि– `परौ नियो द्यूते', `इणोऽनुपात्यये', `नावभ्रेषे'। इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र तु परावित्यनुवर्तनाच्चेष्टं सिध्यतीति भावः। ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः, तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह बाधित्वाऽयमेव घञ् भवतीति।
TBD.