Table of Contents

<<3-3-36 —- 3-3-38>>

3-3-37 परिन्योर् नीणोर् द्यूताभ्रेषयोः

प्रथमावृत्तिः

TBD.

काशिका

परिशब्दे निशब्दे च उपपदे यथासङ्ख्यं नियः इणश्च धातोः घञ् प्रत्ययो भवति। अचो ऽपवादः। द्यूताभ्रेषयोः, अत्र अपि यथासङ्ख्यम् एव सम्बन्धः। द्यूतविषयः चेन् नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः। पदार्थानाम् अनपचारो यथाप्राप्तकरणम् अभ्रेषः। द्यूते तावत् परिणायेन शारान् हन्ति। समन्तान् नयनेन। अभ्रेषे एषो ऽत्र न्यायः। द्यूताभ्रेषयोः इति किम्? परिणयः। न्ययं गतः पापः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1526 परिन्योः। अक्षादिभिः क्रीडनं द्यूतम्। यथाप्राप्तकरणमभ्रेषः।

Satishji's सूत्र-सूचिः

TBD.