Table of Contents

<<3-3-1 —- 3-3-3>>

3-3-2 भूते ऽपि दृश्यन्ते

प्रथमावृत्तिः

TBD.

काशिका

पूर्वत्र वर्तमानाधिकाराद् भूतार्थम् इदं वचनम्। भूते काले उणादयः प्रत्यया दृश्यन्ते। वृत्तम् इदं वर्त्म। चरितं तदिति चर्म। भसितं तदिति भस्म। दृशिग्रहणं प्रयोगानुसारार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1504 भूतेऽपि दृश्यन्ते। नन्वेवं वर्तमानग्रहणं च `उणादयो बहुल'मित्यत्र नानुवर्त्त्यताम्, एतच्चोत्तरसूत्रं च त्यज्यताम्। अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः– `बाहुल्येन वर्तमाने भवन्ति, भूतभविष्यतोस्तु क्वचिदेवे'ति विवेकप्रदर्शानयेदमिति।

Satishji's सूत्र-सूचिः

TBD.