Table of Contents

<<3-3-23 —- 3-3-25>>

3-3-24 श्रिणीभुवो ऽनुपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

श्रि णी भू इत्येतेभ्यो धातुभ्यो ऽनुपसर्गेभ्यो घञ् प्रत्ययो भवति। अजपोरपवादः। श्रायः। नायः। भावः। अनुपसर्गे इति किम्? प्रश्रयः। प्रणयः। प्रभवः। कथं प्रभावो राज्ञाः? प्रकृष्टो भावः इति प्रादिसमासो भविष्यति। कथं च नयो राज्ञः? कृत्यल्युटो बहुलम् 3-3-113 इति अच् भविष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1522 राज्ञो नय इति। णीञ् प्रापणे इत्यस्मादचो यत्।

Satishji's सूत्र-सूचिः

TBD.