TBD.
इङो धातोः घञ् प्रत्ययो भवति। अचो ऽपवादः। अध्यायः। उपेत्यास्मादधीते उपाध्यायः। अपादाने स्त्रियाम् उपसङ्ख्यानं तदन्ताच् च वा ङीष्। उपाध्याया, उपाध्यायी। शृ\उ0304 वायुवर्णनिवृतेषु। शारो वायुः। शारो वर्णः। शारो निवृतम्। गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः।
TBD.
–
–
1520 उपेत्येति। गुरुसमीपमेत्येत्यर्थः। अपादान इति। पुरस्तादपवादन्यायेन इङश्चेत्यस्याऽच एवापवादत्वात्स्त्रियां तु क्तिन् स्यादिति तद्बाधनायाऽयमारम्भः। `घञनुक्रमणमजपोर्विषये' इति वचनात्स्त्रियां घञ् न स्यादिति स्त्रियाङ्ग्रहणम्। उपाध्यायेति। यां स्वयमद्यापयति तस्यामिदं रुपद्वयम्। पुंयोगे तु ङीषेव। आनुगागमश्च पाक्षिक इत्युक्तम्। करणे क्त इति। वृञ् वरण इत्यस्मादित्यर्थः। नीशार इति। `उपसर्गस्य घञी'ति दीर्घः। ननु `प्रदक्षिणप्रसव्यगामिनां शाराणा'मिति कथं प्रयोगः ?, `वायुवर्णे' इत्यर्थपरिगणनादिति चेत्। अत्राहुः– अतएव वार्तिकप्रयोगादक्षेष्वपि शृणातेर्घञिति।
TBD.