Table of Contents

<<3-3-16 —- 3-3-18>>

3-3-17 सृ स्थिरे

प्रथमावृत्तिः

TBD.

काशिका

सर्तेः धातोः स्थिरे कर्तरि घञ् प्रतयो भवति। स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते। स चिरं तिष्ठन् कालन्तरं सरति इति धात्वर्थस्य कर्ता युज्यते। चन्दनसारः। खदिरसारः। स्थिरे इति किम्? सर्ता। सारकः। व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतीसारो व्याधिः। विसारो मत्स्यः। सारो बलम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

1515 सृ स्थिरे। सतेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणं, स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदमिति ध्वनयन्नाह– स्थिरे कर्तरीति। अद्र्धर्चादिषु सारशब्दपाठोऽत्र मानम्। व्याधीत्यादि। अस्थिरार्थमिदं वचनम्। तेन `विसारो मत्स्य' इत्यत्र विविधं सरतीत्यर्थः सङ्गच्छते। अतीसार इति। `उपसर्गस्य घञी'ति दीर्घः। सारो बलमिति। अत्रापि सृधातुरन्तर्भावितण्यर्थः, सारयति चेष्टयतीत्यर्थानुरोधात्। वलवानेव हि चेष्टते। सिद्धावस्थापन्न इति। पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः।

Satishji's सूत्र-सूचिः

TBD.