Table of Contents

<<3-3-16 —- 3-3-18>>

3-3-17 सृ स्थिरे

प्रथमावृत्तिः

TBD.

काशिका

सर्तेः धातोः स्थिरे कर्तरि घञ् प्रतयो भवति। स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते। स चिरं तिष्ठन् कालन्तरं सरति इति धात्वर्थस्य कर्ता युज्यते। चन्दनसारः। खदिरसारः। स्थिरे इति किम्? सर्ता। सारकः। व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतीसारो व्याधिः। विसारो मत्स्यः। सारो बलम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1515 सृ स्थिरे। सतेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणं, स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदमिति ध्वनयन्नाह– स्थिरे कर्तरीति। अद्र्धर्चादिषु सारशब्दपाठोऽत्र मानम्। व्याधीत्यादि। अस्थिरार्थमिदं वचनम्। तेन `विसारो मत्स्य' इत्यत्र विविधं सरतीत्यर्थः सङ्गच्छते। अतीसार इति। `उपसर्गस्य घञी'ति दीर्घः। सारो बलमिति। अत्रापि सृधातुरन्तर्भावितण्यर्थः, सारयति चेष्टयतीत्यर्थानुरोधात्। वलवानेव हि चेष्टते। सिद्धावस्थापन्न इति। पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः।

Satishji's सूत्र-सूचिः

TBD.