TBD.
शकि इति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर् वचनम् लिङा बाधा मा भूतिति।
TBD.
–
645 शकि लिङ् च। `शक्' इति भावे क्विबन्तम्। शक्तौ गम्यमानायामित्यर्थः। भारं त्वं वहेरिति। वोढुं शक्त इत्यर्थः। `माङि लु'ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते। ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते – कथमिति। परिहरति– नायं माङिति। किंत्विति। ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः। नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वे `माङि लु'ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये `न माङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात्।
–
वृत्तिः शक्तौ लिङ् स्यात् चात्कृत्याः । The affix लिँङ् as well as the affixes having the designation “कृत्य” are used after a verbal root when the sense is that of ‘capability’.
उदाहरणम् – भवता खलु भारो वोढव्यः। भवान् खलु भारं वहेत्।