Table of Contents

<<3-3-167 —- 3-3-169>>

3-3-168 लिङ् यदि

प्रथमावृत्तिः

TBD.

काशिका

कालादयो ऽनुवर्तन्ते। यच्छब्दे उपपदे कालादिषु धातोः लिङ् प्रत्ययो भवति। तुमुनो ऽपवादः। कालो यद् भुञ्जीत भवान्। सम्यो यद् भुञ्जीत भवान्। वेला यद् भुञ्जीत भवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

643 लिङ्यदि। कालसमयवेलास्वत्यनुवर्तते। सर्वलकारापवादः, तुमुनपवादश्च। भुञ्जीत भवानिति यत्तस्यकालः समयो वेला वेत्यन्वयः।

तत्त्वबोधिनी

535 लिङ् यदि। कालसमयवेलासु चेति। `उपपदेष्वि'ति वचनविपरिणामेन संबध्यते। तुमुनोऽपवादः। यद्भुञ्जीतेति। यत्कालः पचतीत्यत्र तु न , प्रेषादीनामनुवृत्तेः।

Satishji's सूत्र-सूचिः

TBD.