TBD.
अर्हति इति अर्हः, तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृचः प्रत्यया भवन्ति, चकाराल् लिङ् च। भवता खलु कन्या वोढव्या, वाह्या, वहनीया। भवान् खलु कन्याया वोढा। भवान् खलु कन्यां वहेत्। भवानेतदर्हेतिति। अथ कस्मादर्हे कृत्यतृचो विधीयन्ते, यावता सामानेन विहितत्वादर्हे ऽपि भविस्यन्ति? यो ऽयम् इह लिङ् विधीयते, तेन बाधा मा भूतिति। वासरूपविधिश्च अनित्यः।
TBD.
–
644 अर्हे कृत्यतृतश्च। चाल्लिङिति। योग्येकर्तरि गम्ये कृत्याः, तृच्, लिङ् चेत्यर्थः। त्वं कन्यां वहेरिति। कन्याविवाहस्य योग्य इत्यर्थः।
536 अर्हे। योग्ये कर्तरि गम्यमाने कृत्यतृचो भवन्ति। त्वया कन्या वोढ्वया, वहनीया। त्वं कन्यां वोढा। कन्यां वहेरिति। कन्योद्वहने योग्यस्त्वमित्यर्थः। नन्वर्हे किमर्थं कृत्यतृचो विधीयन्ते यावता सामान्येन विहितत्वादनर्हेऽपि भविष्यन्तीति चेत्। अत्राहुः– अर्हतायां द्योत्यायमप्राप्तो लिङ् विधीयते, तेन तु लिङा बाधा माभूदिति कृत्यतृचोर्विधानम्। न च वासरूपविधिना समीहितसिद्धिः, स्त्र्यधिकारादूध्र्वं तदप्रवृत्तेरिति।
वृत्तिः चाल्लिङ् । The affixes having the designation “कृत्य”, the affix “तृच्” as well as लिँङ् are used after a verbal root when the agent is to be denoted as ‘deserving/worthy’.
उदाहरणम् – त्वया कन्या वोढव्या। त्वं कन्याया वोढा। त्वं कन्या वहे:।