Table of Contents

<<3-3-165 —- 3-3-167>>

3-3-166 अधीष्टे च

प्रथमावृत्तिः

TBD.

काशिका

स्मे इति वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दे उपपदे ऽधीष्टे गम्यमाने धातोः लोट् प्रत्ययो भवति। लिङो ऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

642 अधीष्टे च। लोट् स्यादिति। अधीष्टे विहितस्य लिङोऽपवादः। अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम्। त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः। `स्मे लोडधीष्टेचे'त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः। `कालसमयेलासु तुमु'न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते।

तत्त्वबोधिनी

534 अधीष्टे च। लिङोऽपवादः। योगविभास्तु ऊध्र्वमौहूर्तिकाऽननुवृत्त्यर्थः।

Satishji's सूत्र-सूचिः

TBD.