Table of Contents

<<3-3-165 —- 3-3-167>>

3-3-166 अधीष्टे च

प्रथमावृत्तिः

TBD.

काशिका

स्मे इति वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दे उपपदे ऽधीष्टे गम्यमाने धातोः लोट् प्रत्ययो भवति। लिङो ऽपवादः। अङ्ग स्म राजन् माणवकमध्यापय। अङ्ग स्म राजन्नग्निहोत्रं जुहुधि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

642 अधीष्टे च। लोट् स्यादिति। अधीष्टे विहितस्य लिङोऽपवादः। अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम्। त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः। `स्मे लोडधीष्टेचे'त्येकसूत्रत्वेन सिद्धए योगविभागस्तु ऊध्र्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः। `कालसमयेलासु तुमु'न्नित्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते।

तत्त्वबोधिनी

534 अधीष्टे च। लिङोऽपवादः। योगविभास्तु ऊध्र्वमौहूर्तिकाऽननुवृत्त्यर्थः।

Satishji's सूत्र-सूचिः

TBD.