Table of Contents

<<3-3-164 —- 3-3-166>>

3-3-165 स्मे लोट्

प्रथमावृत्तिः

TBD.

काशिका

प्रैषादिषु ऊर्ध्वमौहूर्तिके इति वर्तते। सम्शब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिके ऽर्थे वर्तमानाद् धातोः लोट् प्रत्ययो भवति। लिङ्कृत्यानाम् अपवादः। ऊर्ध्वं मुहूर्ताद् भवान् कटं कओर्तु स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

641 स्मे लोट्। पूर्वसूत्रेति। तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यान्नतु लिह् कृत्याश्चेत्यर्थः। तदाह– लिङः कृत्यानां चापवाद इति।

तत्त्वबोधिनी

533 पूर्वसूत्रस्यविषय इति। प्रैषादयः, ऊध्र्वमौहूर्तिके इति चानुवर्तत इति भावः।

Satishji's सूत्र-सूचिः

TBD.