Table of Contents

<<3-3-163 —- 3-3-165>>

3-3-164 लिङ् च ऊर्ध्वमौहूर्तिके

प्रथमावृत्तिः

TBD.

काशिका

प्रैषादयो वर्तन्ते। प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिके ऽर्थे वर्तमानाद् धातोः लिङ् प्रत्ययो भवति, चकाराद् यथा प्राप्तं च। ऊर्ध्वं मुहूर्तात्, उपरि मुहूर्तस्य भवता खलु कटः कर्तव्यः, करणीयः, कार्यः। भवान् खलु कटं कुर्यात्, भवान् खलु करोतु। भवानिह प्रेषितः। भवानतिसृष्टः। भवान् प्राप्तकालः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

640 लिङ् चोध्र्वमौहूर्तिके। `लोडर्थलक्षणे चे'त्युत्तरमेवंजातीयकमेव सूत्रं लिङ्लड्लुङ्लृड्?विधायकं प्राक् पठितम्। तत्र ऊध्र्वमौहूर्तिकशब्दो व्याख्यातः। प्रैषादय इति। तथा च मुहूर्तादूध्र्वं यजेत यजतां यष्टव्यमिति। अत्र प्राप्तकालेऽप्राप्तस्य लिङो विधिः, विध्यादिसूत्रे लिङ्?विधौ प्राप्तकालस्य ग्रहणाऽभावात्। प्रैषातिसर्गयोस्तु विद्यादिसूत्रेणैव लिङ् सिध्यति। लिङ एवात्र विधौ तु तेन लोटः कृत्यानां च बाधः स्यात्, अतश्चकारेण तेषामिति विधिरिति ज्ञेयम्।

तत्त्वबोधिनी

532 लिङ् चोध्र्व। प्राप्तकालविशेषेऽप्राप्तस्य लिङो विधानार्थमिदं सूत्रम्। प्रैषातिसर्गयोस्तु पूर्वेण प्राप्त एव लिङ्। लोट्?कृत्यानां कालविशेषेऽस्मिन् लिङा माभूदिति चकारः।

Satishji's सूत्र-सूचिः

TBD.