Table of Contents

<<3-3-162 —- 3-3-164>>

3-3-163 प्रैषातिसर्गप्राप्तकालेषु कऋत्याश् च

प्रथमावृत्तिः

TBD.

काशिका

प्रेषणं प्रैषः। कामचाराभ्यनुज्ञानम् अतिसर्गः। निमित्तभूतस्य कालस्य अवसरः प्राप्तकालता। एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्ययाः भवन्ति, चकाराल् लोट् च। भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः। लोट् खल्वपि करोतु कटं भवानिह प्रेषितः, भवानतिसृष्टह्, भवतः प्राप्तकालः कटकरणे। किमर्थं प्रैषादिषु कृत्या विधीयन्ते न सामान्येन, भावकर्मणोर् विहिता एव ते प्रैषादिष्वन्यत्र च भविष्यन्ति? विशेषविहितेन अनेन लोटा बाद्यन्ते। वासरूपविधिना भविस्यन्ति? एवं तर्हि ज्ञापयति, स्त्र्यधिकारात् परेण वासरूपविधिर् नावष्यं भवति इति। विधिप्रैषयोः को विशेष? केचिदाहुः, अज्ञातज्ञापनं विधिः, प्रेषणं प्रैषः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

639 प्रैषातिसर्ग।लोट् चेति। पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते। कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः। प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति– भवता यष्टव्यमिति। भावे तव्यप्रत्ययः। लोटमुदाहरति– भवान्यजतामिति. ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया च `लोट् चे'त्यनेनैव सिद्धेरित्यत आह- - वकारेणेति। प्राप्तकाले यथा– गुरुणा भोक्तव्यम्। गुरुर्भुञ्जीत। भोजनं प्राप्तावसरमित्यर्थः। `प्राप्तकाले च कृत्याश्चे'त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः। अतः प्रैषादिग्रहणम्।

तत्त्वबोधिनी

531 प्रैषतिसर्ग। प्रैषो विधिरिति। विधिग्रहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः। लोटोऽनुकर्षणमिति। `लोट् चे'ति योगस्येदमेव प्रयोजनम्। एकयोगत्वे तु लिङोऽप्यनुकर्षणं स्यात्। प्राप्तकालार्थमिति। प्रैषतिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । The affix लोँट् as well as the affixes having the designation “कृत्य” are used after a verbal root when ‘direction/ordering’ (प्रैषः) or ‘granting permission’ (अतिसर्गः) or ‘proper time’ (प्राप्तकालः) is to be denoted.

उदाहरणम् -

प्रैषे – जलमानेतव्यं त्वया। त्वयात्र स्थातव्यम्।

अतिसर्गे – भवता जलं पातव्यम्। भवता शयितव्यम्।

प्राप्तकाले – शयनं त्यक्तव्यं त्वया। त्वयेदानीं पलायितव्यम्।