Table of Contents

<<3-3-14 —- 3-3-16>>

3-3-15 अनद्यतने लुट्

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इत्येव। भविष्यदनद्यतने ऽर्थे वर्तमानाद् धतोः लुट् प्रत्ययो भवति। लृटो ऽपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतने इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यति। परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या। इयं नु कदा गन्ता, या एवं पादौ निदधाति। अयं नु कदा ऽध्येता, य एवम् अनभियुक्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

404 भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात्..

बालमनोरमा

34 अनद्यतने लुट्। धातोरित्यधिकृतम्। `भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते। भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति। तदाह– भविष्यत्यनद्यतन इति। अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्याख्यातः। उटावितौ। लुटस्तिबादयः।

तत्त्वबोधिनी

28 अतीताया रात्रेः पश्चार्द्धेन, आगामिन्याः पूर्वार्द्धेन सहितोदिवसोऽद्यतन इति `कालोपसर्जने च तुल्य'मित्यत्र स्थितम्॥

Satishji's सूत्र-सूचिः

वृत्ति: भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् । The affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

उदाहरणम् – भविता derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लुँट् 3-3-15
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + ति 1-3-3, 1-3-9

Example continued under 3-1-33.