TBD.
इच्छार्थेषु धतुषु उपपदेषु धतोः लिङ्लोटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। इच्छामि भुञ्जीत भवान्। इच्छामि भुङ्क्ताम् भवान्। कामये। प्रार्थये। कामप्रवेदन इति वक्तव्यम्। इह मा भूत्, इच्छन् करोति।
TBD.
–
637 इच्छार्थेषु लिङ्?लोटौ। इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्?लोटौ स्तः। सर्वलकारापवादः। असमानकर्तृकविषयमिदम्। समानकर्तृकेषु तु `लिङ् चे'ति वक्ष्यते। इच्छामिति। भुञ्जीत भवानिति इच्छामीत्यन्वयः। कामप्रवेदने इति। परं प्रति स्वाभिप्रायाविष्करणे `इच्छार्थेषु लिङ्लोटा'विति विधिरित्यर्थः। इच्छन्करोतीति। परं प्रति स्वाभिप्रायाविष्करणाऽभावान्न लिङ्?लोटाविति भाव-। `कामप्रवेदनेऽकच्चिती'ति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनं, नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम्। इत उत्तरसूत्रं `समानकर्तृकेषु तुमु'न्निति तु कृदधिकारे व्याख्यास्यते।
528 इच्छार्थेषु लिङ्लोटौ। एषूपपदेषु धातोरेतौ स्तः। सर्वलकाराणामपवादः। `लिङ् चे'त्यनेन रसमानकर्तृकेषु लिङो विधानादिह लिङ्लोटटावसमानकर्तृकेषु भवत इति बोध्यम्। `समानकर्तृकेषु' इति तुमुन् न। ननु `कामप्रवेदनेऽकच्चिती'त्यनेनैव लिङः सिद्धत्वादिह लिड्ग्रहणं मास्तु, लोडेव विधीयतामिति चेन्न, लोटा लिङो बाधा माभूदिति लिङ्ग्रहणस्याऽत्रावश्यकत्वात्। न चैवम् `इच्छार्थेषु लोट् चे'त्येव सूत्र्यतामिति वाच्यम्। चकारेण लिङोऽनुकर्षे तत्संबद्धविभाषाग्रहणस्याऽनुकर्षणप्रसक्त्या लकारान्तमपि स्यादिति। न चैवमपि `कामप्रवेदने' इत्युपसङ्ख्यानादनेनैव सिद्धे `कामप्रवेदनेऽकच्चिती'ति सूत्रं मास्त्विति वाच्यम्, यत्राऽर्थप्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थं तदारम्भात्।
TBD.