Table of Contents

<<3-3-154 —- 3-3-156>>

3-3-155 विभाषा धातौ सम्भावनवचने ऽयदि

प्रथमावृत्तिः

TBD.

काशिका

सम्भावने ऽलम् इति चेत् सिद्धाप्रयोगे इति सर्वम् अनुवर्तते। अम्भावनम् उच्यते येन स सम्भावनवचनः। सम्भावनवचने धातावुपपदे यच् छब्दवर्जिते धातोर् विभाषा लिङ् भवति। पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनं। सम्भावयामि भुञ्जीत भवान्, सम्भावयामि भोक्ष्यते भवान्। अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान्। श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान्। अयदि इति किम्? सम्भावयामि यद् भुञ्जीत भवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

635 विभाषा धातौ। `अयदी'ति छेदः। तदाह– नतु यदिति। लिङभावे लृट्, `शेषे लडयदौ' इत्यतस्तदनुवृत्तेः। संभावयामीति। प्रायेण भोक्तुं समर्थ इत्यर्थः।

तत्त्वबोधिनी

526 विभाषा धातौ। संभावनमुच्यते येन तत्संभावनवचनं, तस्मिन्धातौ। संभावनार्थकधातावित्यर्थः। भुञ्जीथास्त्वमिति। अत्र पूर्वेण नित्यो लिङ्। धातौ किम् ?।संभावनवचने स्वरूपग्रहणं माभूत्। कृते तु संभावनवचने तद्वाचकधातोरप्रयोगादिह विभाषा न भवति। भुञ्जीत भवान्। पूर्वेणाऽत्र नित्यो लिङ्।

Satishji's सूत्र-सूचिः

TBD.