TBD.
लिङित्येव। सम्भावनम् क्रियासु योग्यताध्यवसानम्, शक्तिश्रद्धानम्। तदिदानीम् अल्मर्थेन विशेष्यते। तच् चेत् सम्भावनं पर्याप्तमवितथं भवति। सिद्धाप्रयोगे इत्यलमो विशेषणम्। सिद्धश्चे दलमो ऽप्रयोगः। क्व च असौ सिद्धः? यत्र गम्यते चार्थो न च असौ प्रयुज्यते। तदीदृशे सम्भावनोपाधिके ऽर्थे वर्तमानाद् धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। अपि पर्वतं शिरसा भन्द्यात्। अपि द्रोणपाकं भुञ्जीत। अलम् इति किम्? विदेशस्थायी देवदत्तः प्रायेन गमिष्यति ग्रामम्। सिद्धाप्रयोगे इति किम्? अलं देवदत्तो हस्तिनं हनिष्यति। क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ् भवति।
TBD.
–
634 संभावने। अलमर्थोऽत्र प्रौढिरिति। पर्याप्तिरित्यर्थः। विपरिणम्यते इति। संभावने इति यत् सप्तम्यन्तं तदावर्त्त्य प्रथमया संभावनमिति च विपरिणम्यते, यत्तु अलमिति प्रथमान्तं तदावर्त्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः। `छान्दसं विभक्तिव्यत्ययमाश्रित्ये'ति शेषः। तथा च संभावने इति सप्तम्यन्तं, संभावनमिति प्रथमान्तं च लभ्यते। तथा अलमिति प्रथमान्तमलभि इति सप्तम्यन्तं च लभ्यते। तत्र संभावने इति सप्तम्यन्तमर्थनिर्देशपरं। तदाह– संभावनेऽर्थ लिङ्?स्यादिति। उत्कटान्यतरकोटिकं ज्ञान संभावनमित्युच्यते। संभावनमितिप्रथमान्तं तु अलमिति प्रथमान्तेन विशेष्यते। इति र्हेतौ। तदाह– तच्चेदिति। तत् = संभावनम्?, अलं = पर्याप्तिहेतुकं चेदित्यन्वयः। षिधधातोज्र्ञानार्थकात् `मतिबुद्धी'त वर्तमाने कर्मणि क्ते सिद्धशब्दः। सिद्धे गम्यमानेऽप्यलमर्थे अप्रयोगो यस्य स सिद्धाऽप्रयोगस्तस्मिन्निति विग्रहः। अलमीति सप्तम्यन्तमत्र विशेष्यसमर्पकं संबध्यते। अलंशब्दप्रयोगं विनापि तदर्थे गम्यमाने इति यावत्। तदाह- - सिद्धाऽप्रयोगे सतीति। `अलमी'ति शेषः। अपि गिरिमिति। बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम्। प्रायेण शिरसा गिरि भ#एत्तुमयं समर्थ इत्यर्थः। गिरिभेदसंभावनस्य सामथ्र्यहेतुकत्वद्योतकोऽपिशब्दः। अत्र लिङ्?निमित्तसत्त्वात् क्रियातिपत्तौ भूते लृङ्। `अलमिति संभावने सिद्धाऽप्रयोगश्चे'दिति सुवचम्।
–
TBD.