Table of Contents

<<3-3-150 —- 3-3-152>>

3-3-151 शेषे लृडयदौ

प्रथमावृत्तिः

TBD.

काशिका

यच्चयत्राभ्याम् अन्यत्र चित्रीकरणं शेषः। शेषे उअपपदे चित्रीकरणे गम्यमाने धातोः लृट् प्रत्ययो भवति, यदिशब्दश्चेन् न प्रयुज्यते। सर्वलकाराणाम् अपवादः। आश्चर्यम्, चित्रम् अद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरनमध्येष्यते। अयदौ इति किम्? आश्चर्यं यदि स भुञ्जीत, यदि सो ऽधीयीत। लिङ् निमिताभावातिह लृङ् न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

631 शेषे लृडयदौ।यच्चयत्राभ्यामन्यः शेषः। तदाह– यच्चयत्राभ्यामन्यस्मिन्निति। `यदिभिन्ने' इति शेषः। लृट्?स्यादिति। नतु लकारान्तरमित्यर्थः। आश्चर्यमिति। अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः। नामेत्यव्ययमाश्चर्यद्योतकम्। मूक् इति। मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः। यदीत्याश्चर्यद्योतकम्।

तत्त्वबोधिनी

522 शेषे। सर्वलकारापवादः। सोऽधीयीतेति। यदायद्योरुपसङ्ख्यानात् `जातुयदो'रिति लिङ्। लिङ्निमित्ताऽभावादिह लृङ् न।

Satishji's सूत्र-सूचिः

TBD.