Table of Contents

<<3-3-149 —- 3-3-151>>

3-3-150 चित्रीकरणे च

प्रथमावृत्तिः

TBD.

काशिका

यच्चयत्रयोः इत्येव। चत्रीकरणम् आश्चर्यम्, अद्भुतम्, विस्मयनीयम्। यच्चयत्रयोः उपपदयोः चित्रीकरणे गम्यमाने धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। यच् च तत्रह्बवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेत्, आश्चर्यम् एतत्। क्रियातिपत्तौ यथायथं लृङ् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

630 चित्रीकरणे च। यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिहेव स्यान् तु लकारान्तरमित्यर्थः। उदाहरणे यच्चेति यत्रेति चाश्चर्यद्योतकम्। त्वं शूद्रं याजयेरिति यत्तदाश्चर्यमित्यन्वयः।

तत्त्वबोधिनी

521 चित्रीकरणे च। अयमपि कालत्रये। लृङ् प्राग्वत्। यच्च यत्र वा त्वं शूद्रमयाजयिष्यः, आश्चर्यमेतत्!!।

Satishji's सूत्र-सूचिः

TBD.