Table of Contents

<<3-3-148 —- 3-3-150>>

3-3-149 गर्हायां च

प्रथमावृत्तिः

TBD.

काशिका

अनवक्लृत्प्यमर्षयोः इति निवृत्तम्। गर्हा, निन्दा, कुत्सा इत्यनर्थान्तरम्। यच् च यत्र इत्येतयोः उपपदयोर् धतोः लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्। सर्वलकाराणाम् अपवादः। यच् च तत्रभवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेदृद्धो वृद्धः सन् ब्राह्मणः, गर्हामहे, अहो अन्याय्यम् एतत्। क्रियातिपत्तौ यथायथं लृङ् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

629 गर्हायां च। निवृत्तमिति। व्याख्यानादिति भावः। `यच्चत्रयोरिति, लिहिति चानुवर्तते। तदाह—यच्चयत्रयोर्योगे इति।लिङेवेति। नतु लकारान्तरमित्यर्थः। उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम्। `त्वं शूद्रं याजये' रितियत्तदन्याय्यमित्यन्वयः। लृङ् प्राग्वत्।

तत्त्वबोधिनी

520 गर्हायां च। कालत्रयेऽयं भवतीति सर्वलकारापवादः। लिङेव स्यादिति।गर्हायां `विभाषा कथमी'ति लट् प्राप्तस्तत्रैव `किंवृत्ते' इति लृट् प्राप्तस्तयोरपवादो यच्चत्रयोर्योगे विहितोऽयं लिङिति भावः। लृङ् प्राग्वत्। `यच्च यत्र वा त्वं शूद्रमयाजयिष्यस्तदन्याय्य'मित्यादि।

Satishji's सूत्र-सूचिः

TBD.