Table of Contents

<<3-3-13 —- 3-3-15>>

3-3-14 लृटः सद्वा

प्रथमावृत्तिः

TBD.

काशिका

लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः। व्यवस्थितविभाषा इयम्। तेन यथा लटः शतृशानचौ तथा अस्य अपि भवतः। अप्रथमासमानाधिकरणाऽदिषु नित्यम्, अन्यत्र विकल्पः। करिष्यन्तं देवदत्तं पश्य। करिष्यमाणं देवदत्तं पश्य। हे करिष्यन्। हे करिस्यमाण। अर्जयिष्यमणो वसति। प्रथमासमानाधिकरणे विकल्पः करिष्यन् देवदत्तः। करिस्यमणो देवदत्तः। करिष्यति। करिस्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

838 व्यवस्थितविभाषेयम्. तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्. करिष्यन्तं करिष्यमाणं पश्य..

बालमनोरमा

909 लृटः सद्वा। लृटः शतृशानचौ वा स्त इत्यर्थः। व्यवस्थितेति। व्याख्यानादिति भावः। नित्यमिति। तेन तिङां निवृत्तिः। अप्रथमासामानाधिकरण्ये उदाहरति- - करिष्यन्तमिति। प्रत्ययये परत उदाहरति– कारिष्यत इति। उत्तपदे उदाहरति- - करिष्यद्भक्तिरिति। करिष्यन्ती भक्तिरिति। कर्मधारयः। सम्बोधने उदाहरति– हे करिष्यन्निति। `शयिष्यमाणाभोक्ष्यन्ते यवना' इति लक्षणे उदाहार्यम्। हेतावुदाहरति- - अर्जयिष्यन्वसतीति। प्रथमासामानाधिकरण्येऽपि क्वचिदिति। अप्रथमासामानादिकरण्याऽभावेऽपि क्वचिदित्यर्थः। कदाचिदित्यपि द्रष्टव्यम्। इदं च `लृट् शेषे चे'ति भविष्यदधिकारविहिते लृट\उfffदेव प्रवर्तते इति `अनवक्लृप्त्यमर्षे'त्यत्र भाष्ये स्पष्टम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः स्पष्टम् । An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट् ।

व्‍यवस्‍थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्‍ये प्रत्‍योत्तरपदयोः संबोधने लक्षणहेत्‍वोश्‍च नित्‍यम् । (from सिद्धान्तकौमुदी) The optionality (indicated by the term वा) in 3-3-14 is regulated (व्‍यवस्‍थितविभाषा)। Hence the substitution by ” is compulsory in the following cases -
(i) the derived word is in agreement with (has the same reference as) a word which ends in nominal ending other than the nominative – e.g. करिष्यन्तं/करिष्यमाणं पश्य ।
(ii) the derived word is followed by an affix or a latter member (of a compound) – e.g. करिष्यतोऽपत्यं कारिष्यत: । करिष्यद्भक्ति: ।
(iii) the derived word is used in invocation or address – e.g. हे करिष्यन् ।
(iv) the action denoted by the verbal root constitutes a characteristic (लक्षणम्) or cause (हेतु:) of another action – e.g. शयिष्यमाणा भोक्ष्यन्ते यवना: । अर्जयिष्यन्वसति ।

प्रथमासामानधिकरण्येऽपि क्वचित् । (from सिद्धान्तकौमुदी) Even when the derived word is in agreement with (has the same reference as) a word ending in the nominative case, the affix ‘लृँट्’ is occasionally replaced by an affix which is designated as ‘सत्’ (ref. 3-2-127). e.g. करिष्यतीति करिष्यन् ।

उदाहरणम् – करिष्‍यन्‍तं करिष्‍यमाणं पश्‍य ।

The प्रातिपदिकम् ‘करिष्‍यत्’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०)
कृ + लृँट् 3-3-13
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + शतृँ 3-3-14, 3-2-127, 1-3-78, 1-4-99
= कृ + अत् 1-3-2, 1-3-8, 1-3-9
= कृ + स्य + अत् 1-1-56, 3-1-33
= कृ + इट् स्य + अत् 7-2-70, 1-1-46
= कृ + इस्य + अत् 1-3-3, 1-3-9
= कर् + इस्य + अत् 7-3-84, 1-1-51
= करिस्यत् 6-1-97
= करिष्यत् 8-3-59. ‘करिष्यत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
करिष्यत् + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= करिष्य नुँम् त् + अम् 7-1-70, 1-1-47
= करिष्य न् त् + अम् 1-3-2, 1-3-3, 1-3-9
= करिष्यंतम् 8-3-24
= करिष्यन्तम् 8-4-58

The प्रातिपदिकम् ‘करिष्यमाण’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०)
कृ + लृँट् 3-3-13
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + शानच् 3-3-14, 3-2-127, 1-3-72, 1-4-100
= कृ + आन 1-3-3, 1-3-8, 1-3-9
= कृ + स्य + आन 1-1-56, 3-1-33
= कृ + इट् स्य + आन 7-2-70, 1-1-46
= कृ + इस्य + आन 1-3-3, 1-3-9
= कर् + इस्य + आन 7-3-84, 1-1-51
= करिस्य मुँक् + आन 7-2-82, 1-1-46
= करिस्य म् + आन 1-3-2, 1-3-3, 1-3-9
= करिष्यमाण 8-3-59. ‘करिष्यमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
करिष्यमाण + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= करिष्यमाणम् 6-1-107