Table of Contents

<<3-3-147 —- 3-3-149>>

3-3-148 यच्चयत्रयोः

प्रथमावृत्तिः

TBD.

काशिका

अनवक्लृप्त्यमर्षयोः इत्येव। यच् च यत्र इत्येतयोः उपपदयोरनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति। लृटो ऽपवादः। योगविभाग उत्तरार्थः। यथासङ्ख्यं नेष्यते। यच् च तत्रभवान् वृषलं याजयेत्। यत्र तत्रभवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

628 यच्चयत्रयोः। यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लृप्त्यमर्षयोर्लिङ् स्यादित्यर्थः। लृटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः। उदाहरणे यच्चेति यत्रेति च अनवक्लृप्त्यमर्षद्योतकौ। त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः। अत्रापि `भविष्यति नित्यं लृङ्, भूते वे'त्युक्तमनुसंधेयम्। लिङ्?निमित्तस्य सत्त्वात्।

तत्त्वबोधिनी

519 यच्चयत्रयोः। `अनवक्लप्त्यमर्षयो'रिति वर्तते।यथासङ्ख्यमिह नेष्यते। अयमपि लिङ्लृटोरपवादः। योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवाऽनुवृत्तिर्यथा स्यादित्येतदर्थः। क्रियातिपत्तौ लृङ् प्राग्वत्। यच्च यत्र वा त्वमेवमकरिष्योन श्रद्दधे न मर्षयामीत्यादि।

Satishji's सूत्र-सूचिः

TBD.