Table of Contents

<<3-3-146 —- 3-3-148>>

3-3-147 जातुयदोर् लिङ्

प्रथमावृत्तिः

TBD.

काशिका

अनवक्लृप्त्यमर्षयोः इत्येव। जातु यदा इत्येतयोः उपपदयोः अनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति। लृटो ऽपवादः। जातु तत्रभवान् वृषलं याजयेत्, यन् नाम तत्रभवान् वृषलं याजयेत्, न श्रद्दधे, न मर्षयामि। जातुयदोर् लिङ्विधाने यदायद्योरुपसङ्ख्यानम्। यदा भवद्विधः क्षत्रियं याजयेत्, यदि भवद्विधः क्षत्रियं याज्येत्, न श्रद्दधे, न मर्षयामि। क्रियातिपत्तौ भूते वा लृङ्। भविष्यति नित्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

627 जातुयदोर्लिङ्।जातु यत् अनयोः प्रयोगे अनवक्लृप्त्यमर्,योर्लिङ् स्यादित्यर्थः। यदिति विभक्तिप्रतिरूपकमव्ययम्। `अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपी'ति लिङ्?लृटौ प्राप्तौ लिङेवेत्यर्तमिदम्। तदाह- – लृटोऽपवाद इति। यदायद्योरिति। यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसङ्ख्यानमित्यर्थः। जात्वादिशब्दा उदाहरणे अनवक्लृप्त्यमर्षद्योतकाः। त्वादृशो हिरं निन्देदित्यतेतन्नावकल्पयामि, न मर्षयामि वेत्यन्वयः। नावकल्पयामीत्यस्य न संभवायामीत्यर्थः। लृङ् प्राग्वदिति। भविष्यति नित्यं लृङ्भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्तु, अनवक्लृप्त्यमर्षयोश्च लिङ्?निमित्तत्वादिति भावः।

तत्त्वबोधिनी

518 जातुयदोर्लिङ्। अनवक्लृप्त्यमर्षयोरिति वर्तते। तथा च`अनवक्लृप्त्यमर्षयो'रिति लिङ्लृटोः प्राप्तयोर्वचनमिदं लृरटो बाधनार्थम्। तदाह– लृटोऽपवाद इति। अयं कालत्रये। लृङ् प्राग्वदिति। क्रियाऽतिपत्तौ भूते वा, भविष्यति नित्यमित्यर्थः। `जातु भवान् हरिमनिन्दिष्य'दित्याद्युहार्तव्यम्। अगर्हार्थमिदम्। गर्हायां तु जातुयोगे लडुक्तः।

Satishji's सूत्र-सूचिः

TBD.