TBD.
अनवक्लृप्त्यमर्षयोः इति वर्तते। किंकिलशब्दः समुदाय एव उपपदम्। अस्त्यर्थाः अस्तिभवति विद्यतयः। किंकिलास्त्यर्थेषु उपपदेषु अनवक्लृप्त्यमर्षयोः धातोः लृट् प्रत्ययो भवति। लिङो ऽपवादः। किं किल नाम तत्रभवन् वृषलं याजयिष्यति। अस्ति नाम तत्रभवान् वृषलं याजयिष्यति। भवति नाम तत्रभवान् वृषलं याजयिष्यति। विद्यते नाम तत्रभवान् वृषलं याजयिष्यति। न श्रद्दधे, न मर्षयामि। लिङ्निमित्तम् इह न अस्ति तेन लृङ् न भवति।
TBD.
–
626 किङ्किला। किंङ्किलेति। समुदायस्य, अस्त्यर्थानां च द्वन्द्वः। यावदिति। `गर्हायां चेत्तः प्रागित्यर्थः। किङ्किलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लृप्त्यमर्षयोर्लृट् स्यादित्यर्थः। पूर्वसूत्रेण लृङ्लृरटोः प्राप्तौ लृडेवेत्यर्थमिदम्। तदाह– लिङोऽपवाद इति। न श्रद्दधे इति। न संभावयामीत्यर्थः। त्वं शूद्रान्नं भोक्ष्यसे इति यत्तन्न श्रद्दधे, न मर्षये वा किङ्किलेत्यन्वयः। किङ्किलेति क्रोधं द्योतयति। अस्तीति। शूद्रस्य स्त्री शूद्री। तां गमिष्यसीत्यस्ति भवति विद्यते वेत्यन्वयः। अत्र लृङ् नेति। भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिङो विध्यभावेन लिङ्?निमित्तविरहात्।
517 किंकिलास्त्यर्थेषु। लिङ्लृटोः प्राप्तयोरिह लृङ्ग्रहणाल्लिङ् निवर्तत इत्याशयेनाह– लिङोऽपवाद इति। अस्ति भवतीति। त्वत्कर्तृकं शूद्रागमनमस्तीत्यादिरर्थः। लृङ् नेति। लिङो निवृत्त्तवेन तन्निमित्तत्वाऽभावात्।
TBD.