Table of Contents

<<3-3-144 —- 3-3-146>>

3-3-145 अनवक्लृप्त्यमर्षयोरकिंवृत्ते ऽपि

प्रथमावृत्तिः

TBD.

काशिका

गर्हायाम् इति निवृत्तम्। अनवक्लृप्तिः असम्भावना। अमर्षः अक्षमा। किंवृत्ते ऽकिंवृत्ते च उपपदे अनवक्लृप्त्यमर्षयोः धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासङ्ख्यं न भवति। अनवक्लृप्तौ तावत् न अवकल्पयामि, न सम्भावयामि, न श्रद्दधे तत्रभवान् नाम वृषलं याजयेत्, तत्रभवान् नाम वृषलं याजयिष्यति। को नाम वृषलो यं तत्रभवान् वृषलं याजयेत्, को नाम तत्रभवान् वृषलं याजयिष्यति। अमर्षे न मर्षयामि तत्रभवान् वृषलं याजयेत्, याजयिष्यति। को नाम वृषलो यं तत्रभवान् याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति। भविष्यति नित्यम्। न अवकल्पयामि तत्रभवान् नाम वृषलम् अयाजयिष्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

625 अनवक्लृप्यमर्ष। निवृत्तमिति। व्याख्यानादिति भावः। अनवक्लृप्त्यमर्षयोर्लिङ्?लृटोश्च यथासङ्ख्यं नेष्यते, अल्पाच्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः। न सम्भावयामीति। अकिंवृत्ते उदाहरणम्। भवान् हिरं निन्देदिति यत्तन्न संभवायामि, न मर्षये वेत्यन्वयः। किंवृत्ते उदाहरति–कः कतर इति। लृङ्?प्राग्वदिति। भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः।

तत्त्वबोधिनी

516 अनवक्लृप्त्यमर्षयोः। लिङ्लृटावनुवर्तेते, तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादौ। किंवृत्तस्यानधिकारादेवाऽविशेषादुभयोर्भविष्यतीत्यकिंवृत्तेऽपीति न कर्तव्यम्। पूर्वनिपाताऽर्हस्याऽल्पाऽचः परनिपातो यथासङ्ख्यनिवृत्त्यर्थः। लृङ् प्राग्वदिति। भूते वा, भविष्यति नित्यमित्यर्थः। नाऽहं भावयामि चैत्रो हरिम निन्दिष्यदित्याद्युदाहर्तव्यम्।

Satishji's सूत्र-सूचिः

TBD.