Table of Contents

<<3-3-143 —- 3-3-145>>

3-3-144 किंवृत्ते लिङ्लृटौ

प्रथमावृत्तिः

TBD.

काशिका

गर्हायाम् इत्येव विभाषा न स्वर्यते। किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। लिङ्ग्रहणं लटो ऽपरिग्रहार्थम्। को नाम वृषलो यं तत्रभवान् याजयेत्, यं तत्रभवान् वृषलं याजयिष्यति। कतरो नाम, कतमो नाम यां तत्रभवान् वृषलं याजयेत्, याजयिष्यति। भूते क्रियातिपत्तौ वा लृङ्। भविष्यति तु नित्यम्। को नाम वृषलो यं तत्रभवानयाजयिष्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

624 किंवृत्ते लिङ्लृटौ। नानुवर्तते इति। व्याख्यानादिति भावः। विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम्। तस्मिन्प्रयुज्यमाने गर्हायां लिङ्?लृटौ स्त इत्यर्थः। सर्वलकाराणामपवादाविति वृत्तिः। लृङ् प्राग्विदिति। भविष्यति नित्यं लृङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः। लिङ्?निमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः।

तत्त्वबोधिनी

515 किंवृत्ते। लिङ्लृटौ कालत्रये स्तः। नानुवर्तत इति। एवं चाऽस्मिन्विषये नित्यं भूते वेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.