Table of Contents

<<3-3-12 —- 3-3-14>>

3-3-13 लृट् शेषे च

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इत्येव। शेषः क्रियार्थौपपदादन्यः। शेषे शुद्धे भविष्यति काले, चकारात् क्रियायां च उपपदे क्रियार्थायां धातोः लृट् प्रत्ययो भवति। करिष्यामि इति व्रजति। हरिष्यामि इति व्रजति। शेषे खल्वपि करिष्यति। हरिष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

42 लृट् शेषे च। `तुमुन्ण्वुलौ क्रियायां क्रियार्थाया'मिति प्रागुक्तं,ततोऽन्यः शेष इत्याह—असत्यामिति। चार्थमाह–सत्यमिति। हरदत्तस्त्वाह– अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते। एवं च `शेषे चे'ति सुत्यजमिति। तच्चिन्त्यम्। `शयिष्यत इति स्थीयते' इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्?तुमुन्खलर्थेषु वासरूपविधेरभावात्। अत्र च ज्ञापकं `प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे'त्यत्र लोटा बाधा मा भूदिति पुनः कृत्यविधि'रित्यादि कृदन्ते वक्ष्यति। इदमपि ज्ञापकमित्यन्यदेतत्। यत्तु प्राचा- - `भविष्यतीति व्रजती'त्युदाह्मतं, तदापाततः, `तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यते' इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्,न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति,भावे हि सः। समानकर्तृकेष्वेवेति च वक्ष्यते। लृडित्येतावत्सूत्रकरणेऽपि `भविष्यतीति व्रजती'त्ययं सिध्यत्येवेत्यास्तां तावत्। स्य इडिति। लृटस्तिपि `स्यतासी लृलुटो'रिति स्यप्रत्ययः। तस्य वलाद्याद्र्धधातुकत्वादिडागम इत्यर्थः। भविष्यतीति। स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वत्सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः। तसादौ भविष्यत इत्याद्यप्येवं योज्यम्। भविष्यामीत्यादौ `अतो दीर्घो यञी'ति दीर्घः। इति लृट्प्रक्रिया।

तत्त्वबोधिनी

33 `तुमुन्?ण्वुलौ क्रियायां क्रियार्थाया'मिति प्रागुक्तं, ततोऽन्यः शेष इत्याह- - असत्यामिति। हरदत्तस्त्वाह— अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते। एवंच `शेषेचे'ति सुत्यजमिति। तच्चिन्त्यम्। `शयिष्यत इति स्थीयते'इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्?तुमुन्? खलर्थेषु वासरूपविधेरभावात्। अतर् च ज्ञापकं `प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे'त्यत्र लोटा बाधा माभूदिति पुनः कृत्त्यविधि'रित्यादि कृदन्ते वक्ष्यति। इदमपि ज्ञापकमित्यन्यदेतत्॥ यत्तु प्राचा– `भविष्यतीति व्रजती'त्युदाह्मतं, तदापाततः, `तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यतेट इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्, न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति, भावे हि सः। समानकर्तृकेष्वेवेति च वक्ष्यते। लृरडित्येतावत्सूत्रकरणेऽपि `भविष्यतीति व्रजती'त्ययं सिध्यत्येवेत्यास्तां तावत्।

Satishji's सूत्र-सूचिः

लृट् शेषे च 3-3-13

वृत्ति: भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां वा । With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
Note: An example of a क्रियार्था क्रिया being present is as follows – “भोक्ष्यामि” इति गच्छति – he goes with the intention that “I shall eat.” Here the गमन-क्रिया (act of going) is a क्रियार्था क्रिया because it is intended for the (later) भोजन-क्रिया (act of eating.)
A क्रियार्था क्रिया is not necessary for using लृँट्। So in the absence of the क्रियार्था क्रिया, the sentence would simply be भोक्ष्यामि – I shall eat.

गीतासु उदाहरणम् – भविष्यति derived from √भू (भू सत्तायाम् १. १). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्‌ || 16-13||

भू + लृँट् 3-3-13
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= भू + ति 1-3-3, 1-3-9
= भू + स्य + ति 3-1-33
= भू + इट् स्य + ति 7-2-35, 1-1-46
= भू + इस्य + ति 1-3-3, 1-3-9
= भो + इस्य + ति 7-3-84
= भविस्यति 6-1-78
= भविष्यति 8-3-59