Table of Contents

<<3-3-136 —- 3-3-138>>

3-3-137 कालविह्भागे च अनहोरात्राणाम्

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति मर्यादावचने ऽवरस्मिनिति वर्तते। कालमर्यादाविभागे सत्यवर्स्मिन् प्रविभागे भविष्यति काले ऽनद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्भन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः। पूर्वेण एव सिद्धे वचनम् इदम् अहोरात्रनिषेधार्थम्। योगविभाग उत्तरार्थः। यो ऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे। भविष्यति इत्येव। यो ऽयं वत्सरो ऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्जमहि। मर्यादावचने इत्येव। यो ऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे। अवरस्मिनित्येव। परस्मिन् विभाषां वक्ष्यति। अहोरात्राणाम् इति किम्? त्रिविधम् उदाहरणम् यो ऽयं मास आगामी, तस्य यो ऽवरः पञ्चदशरात्रः, यो ऽयं त्रिंशद्रात्र आगामी, तस्य यो ऽवरो ऽर्धमासः, यो ऽयं त्रिंशदहोरात्र आगामी, तस्य यो ऽवरः पञ्चदशरात्रः, तत्र युक्ता अध्येतासमहे, तत्र सक्तून् पातास्मः। सर्वथा अहोरात्रस्पर्शे प्रतिषेधः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

510 कालविभागः = कालविशेषः। अनहोरात्राणामिति संबन्धषष्ठी। पूर्वसूत्रमिति। तदयमर्थः– मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यत्यनद्यतनवन्न, स चेत्कालविभागोऽहोरात्रसंबन्धी न चेदित्यर्थः। इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादित्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके। केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीत्याहुः। उत्तरार्थ इति। `परस्मिन्विघाषे'ति सूत्रे कालमर्यादाया एवानुवृत्तिर्यथा स्यात्। भविष्यतीति किम् ?। यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिबाम। मर्यादायामिति किम् ?। यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः। पञ्चदशरात्र इति। नन्वत्र `सङ्ख्यापूर्वं रात्र'मिति क्लीब्तवेन भाव्यम्। न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुव्रीह्राश्रयणात्पुंल्लिङ्गःसिद्ध इति वाच्यम्, `अहः सर्वैकदेशेट त्यच्प्रत्ययस्याऽभावप्रसङ्गादिति चेत्। सत्यम्। अतएव हि भाष्यप्रयोगात्क्लीबत्वं नेत्याहुः।

Satishji's सूत्र-सूचिः

TBD.