TBD.
नानद्यतनवतिति वर्तते। अक्रियप्रबन्धार्थम्, असामीप्यार्थं च वचनम्। भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागे ऽनद्यतनवत् प्रत्ययविधिर् न भवति। यो ऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः। भविष्यति इति किम्? यो ऽयमध्वा गतः आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनम् अभुञ्ज्महि, तत्र सक्तूनपिबाम। मर्यादावचने इति किम्? यो ऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पाता स्मः। अवरस्मिनिति किम्? यो ऽयमध्वा गन्तव्यः आपाटलिपुत्रात्, तस्य यत्परम् कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः। इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता। तत्र च विशेषं वक्ष्यति।
TBD.
–
–
509 भविष्यति मर्यादा। अक्रियाप्रबन्धार्थमसामीप्यार्थं चेदं वचनम्। `नाऽनद्यतनव'दित्यनुवर्तते इत्याह— अनद्यतनवन्नेति। लुडत्र नेत्यर्थः। इह सूत्रे देशकृत मर्यादा, उत्तरत्र कालकृता। तत्र विशेषं वक्ष्यति– तस्य यदवरमिति। पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्ब्याः सकाशादित्यर्थः। कौशाम्ब्याः पूर्वमिति यावत्। भविष्यति किम् ?। योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम। मर्यादावचने इति किम ?। योऽध्वा गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः। अवरस्मिन्निति किम् ?। योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशाम्ब्यास्तत्र सक्तून्पाता स्मः।
TBD.