Table of Contents

<<3-3-134 —- 3-3-136>>

3-3-135 न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः

प्रथमावृत्तिः

TBD.

काशिका

भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः। अनद्यतनवत् प्रत्ययविधिर् न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने। क्रियाणां प्रबन्धः सातत्येनानुष्ठानम्। कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम्। यावज्जीवं भृशमन्नमदात्। भृशमन्नं दास्यति। यावज्जीवं पुत्रानध्यापिपत्। यावज्जीवमध्यापयिष्यति। सामीप्ये खल्वपि येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायो ऽग्नीनाधित, सोमेनायष्ट, गामदित। येयममावास्या आगामिनी, एतस्यामुपाध्यायो ऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्य अभ्यनुज्ञापनाय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

618 भविष्यति मर्यादा। `अवरस्मि'न्निति च्छेदः। अनद्यतनवन्नेति। लुण्नेत्यर्थः। `अक्रियाप्रबन्धार्थ'मिति भाष्यम्। `असामीप्यार्थं चे'ति कैयटः। योऽयमिति। क\उfffद्स्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् \उfffदाः प्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते। `अवर'मित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः। कालविभागे। पूर्वसूत्रमिति। `भविष्यति मर्यादावचनेऽवरस्मि'न्निति सूत्रमित्यर्थः। ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह– अहोरात्रेति। तथा च आहोरात्रसंबन्धिनि प्रविभागे `भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः। ननु `भविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह– योगविभाग उत्तरार्थ इति। इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर आगामीति। कालतो मर्यादायामुदाहरणम्। आग्रहायण्या इति। मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति। नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति। अत्र न लुट्, किंतु लृडेवेति भावः। पञ्चदशरात्रयुक्ता इति। पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः। `अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः। यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। `अहःसर्वैकदेशे'त्यच्समासान्तः। `सङ्ख्यापूर्वंरात्रं क्लीब'मिति तु `लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये'ति वचनान्न भवति।

तत्त्वबोधिनी

508 नानद्यतन। भूतानद्यतने लङ्विहितो, भविष्यत्यनद्यतने तु लुट्, तौ चानयोरर्थयोर्निषिध्येते। तदाह–लङ्लुटौ नेति। एवं च भूते लुङ्, भविष्यति तु लृडित्याशयेनोदाहरति– अन्नमदात्, दास्यतीत्यादि। अग्नीनिति। आहवनीयादीन्।

Satishji's सूत्र-सूचिः

TBD.